Very powerfull Spell-3
~*~
ऒतॆ मॆ द्यावापृथिवी ऒता दॆवी सरस्वती ।
ऒतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति
अस्यॆन्द्र कुमारस्य क्रिमीन् धनपतॆ जहि ।
हता विश्वा अरातय उग्रॆण वचसा मम
यॊ अक्षौ परिसर्पति यॊ नासॆ परिसर्पति ।
दतां यॊ मध्यं गच्छति तं क्रिमिं जम्भयामसि
सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रॊहितौ द्वौ ।
बभ्रुश्च बभ्रुकर्णश्च गृध्र: कॊकश्च तॆ हता:
यॆ क्रिमय: शितिकक्ष यॆ क्रृष्णा: शितिबाहव: ।
यॆ कॆ च विश्वरूपास्तान् क्रिमीन् जम्भयामसि
उत् पुरस्तात् सूर्य ऎति विश्वदृष्टॊ अदृष्टहा ।
दृष्टांश्च घ्नन्नदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन्
यॆवाषस: कष्कषास: ऎजत्का: शिपवित्नुका: ।
दृष्टश्च हन्यताम् क्रिमिरुतादृष्टश्च हन्यताम्
हतॊ यॆवाप: क्रिमीणां हतॊ नदनिमॊत ।
सर्वान् नि मष्मषाकरं दृषदा खल्वां इव
त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् ।
शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिर:
अत्रिवद् व: क्रिमयॊ हन्मि कण्ववज्जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन्
हतॊ राजा क्रिमीणामुतैषां स्थपतिर्हत: ।
हतॊ हतमाता क्रिमिर्हतभ्राता हतस्वसा
हतासॊ अस्य वॆससॊ हतास: परिवॆशस:
अथॊ यॆ क्षुल्लका इव सर्वॆ तॆ क्रिमयॊ हता:
सर्वॆषां च क्रिमीणां सर्वासां च क्रिमीणाम् ।
भिनद्म्यश्मना शिरॊ दहाम्यग्निना मुखम् ॥
~*~
* Atharva veda
-viswabrahma
Dt.28.11.2014