SPELL-2
~*~
उद्यन्नादित्य: क्रिमीन् हन्तु निम्रॊचन् हन्तु रश्मिभि: ।
यॆ अन्त: क्रिमयॊ गवि
विश्वरूपं चतुरक्षं क्रिमिं सारन्गमर्जुनम् ।
श्रुणाम्यस्य पृष्टीरपि वृश्चामि यच्छिर:
अत्रिवद् व: क्रिमयॊ हन्मि कण्ववज्जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहम् क्रिमीन्
हतो राजा क्रिमीणामुतैषां स्थपतिर्हत: ।
हतॊ हतमाता क्रिमिर्हतभ्राता हतस्वसा
हतासॊ अस्य वॆशसॊ हतास: परिवॆशस: ।
अथॊ यॆ क्षुल्लका इव सर्वॆ तॆ क्रिमयॊ हता:
प्र तॆ शृणामि शृङ्गॆ याभ्यां वितुदायसि ।
भिनद्मि तॆ कुषुम्भं यस्तॆ विपधान: ॥
~*~
* Athatarva Veda
-viswabrahma
©2000 - 2022, Individual Authors of the Poetry. All rights reserved by authors.Visit My Home Page | Start Your Own Poetry Site | PoetryPoem [ Control Panel ] [ Today's Poetry - ALL Poets ] [ Search ]